Sukta 10.142
प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः । बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥
प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः । बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥
práty asya śréṇayo dadṛśré ékaṃ niyā́naṃ bahávo ráthāsaḥ | bāhū́ yád agne anumarmṛjānó nyàṅ ut-tā́nām anvéṣi bhū́mim ||
Facing him, the lines are seen—many chariots moving to one single course. When, O Agni, rubbing and cleansing with thy arms, thou searchest downward along the outstretched earth—thou makest the paths one, bringing scattered motions into a single right-going movement.
प्रति॑ । अ॒स्य॒ । श्रेण॑यः । द॒दृ॒श्रे॒ । एक॑म् । नि॒ऽयान॑म् । ब॒हवः॑ । रथा॑सः । बा॒हू इति॑ । यत् । अ॒ग्ने॒ । अ॒नु॒ऽमर्मृ॑जानः । न्य॑ङ् । उ॒त्ता॒नाम् । अ॒नु॒ऽएषि॑ । भूमि॑म् ॥प्रति । अस्य । श्रेणयः । ददृश्रे । एकम् । नियानम् । बहवः । रथासः । बाहू इति । यत् । अग्ने । अनुमर्मृजानः । न्यङ् । उत्तानाम् । अनुएषि । भूमिम् ॥prati | asya | śreṇayaḥ | dadṛśre | ekam | ni-yānam | bahavaḥ | rathāsaḥ | bāhū iti | yat | agne | anu-marmṛjānaḥ | nyaṅ | attānām | anu-eṣi | bhūmim