Sukta 10.142
यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना । यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥
यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ । य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥
yád udvátó nivátó yā́si bápsat pṛ́thag eṣi pragardhínīva sénā | yadā́ te vā́to anuvā́ti śocír váptéva śmáśru vapasi prá bhū́ma ||
When, seated, thou goest from the higher to the lower spaces, thou movest apart like a conquering army. When the wind blows after thee, thy flame shaves the earth as a barber shaves the beard—clearing the ground for a new right growth.
यत् । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒सि॒ । बप्स॑त् । पृथ॑क् । ए॒षि॒ । प्र॒ग॒र्धिनी॑ऽइव । सेना॑ । य॒दा । ते॒ । वातः॑ । अ॒नु॒ऽवाति॑ । शो॒चिः । वप्ता॑ऽइव । श्मश्रु॑ । व॒प॒सि॒ । प्र । भूम॑ ॥यत् । उत्वतः । निवतः । यासि । बप्सत् । पृथक् । एषि । प्रगर्धिनीइव । सेना । यदा । ते । वातः । अनुवाति । शोचिः । वप्ताइव । श्मश्रु । वपसि । प्र । भूम ॥yat | ut-vataḥ | ni-vataḥ | yāsi | bapsat | pṛthak | eṣi | pragardhinī-iva | senā | yadā | te | vātaḥ | anu-vāti | śociḥ | vaptāiva | śmaśru | vapasi | pra | bhūma