Sukta 10.142
उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः । उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥
उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः । उ॒त खि॒ल्या उ॒र्वरा॑णां भवन्ति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥
utá vā ú páry vṛṇakṣi bápsad bahór agna úlapasya svadhāvaḥ | utá khilyā́ urvárāṇāṃ bhavanti mā́ te hetíṃ taviṣī́ṃ cukrudhāma ||
And thou indeed encompassest and choosest (thy path), O Agni, seated on the wide space, self-lawed; and the fallow tracts become fertile fields. May we not provoke thy weapon, thy vehement force; rather may thy energy turn into our increase.
उ॒त । वा॒ । ऊँ॒ इति॑ । परि॑ । वृ॒ण॒क्षि॒ । बप्स॑त् । ब॒होः । अ॒ग्ने॒ । उल॑पस्य । स्व॒धा॒ऽवः॒ । उ॒त । खि॒ल्याः । उ॒र्वरा॑णाम् । भ॒व॒न्ति॒ । मा । ते॒ । हे॒तिम् । तवि॑षीम् । चु॒क्रु॒धा॒म॒ ॥उत । वा । ऊँ इति । परि । वृणक्षि । बप्सत् । बहोः । अग्ने । उलपस्य । स्वधावः । उत । खिल्याः । उर्वराणाम् । भवन्ति । मा । ते । हेतिम् । तविषीम् । चुक्रुधाम ॥uta | vā | oṃ iti | pari | vṛṇakṣi | bapsat | bahoḥ | agne | ulapasya | svadhāvaḥ | uta | khilyāḥ | urvarāṇām | bhavanti | mā | te | hetim | taviṣīm | cukrudhāma