Sukta 10.142
प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे । प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥
प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ॑ञ्जसे । प्र सप्त॑य॒: प्र स॑निषन्त नो॒ धिय॑: पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना॑ ॥
právatté agne jánimā pitūyatáḥ sācī́va víśvā bhúvanā ny-ṛ́ñjase | prá saptáyaḥ prá saniṣanta no dhíyaḥ puráś caranti paśupā́ iva tmánā ||
Forward moves thy birth, O Agni, seeking the father; like a strong companion thou orderest and settest in right array all the worlds. Forward the seven go; forward they win for us our thoughts—moving in front like self-driven herdsmen guarding the inner cattle (the rays of knowledge).
प्र॒ऽवत् । ते॒ । अ॒ग्ने॒ । जनि॑म । पि॒तु॒ऽय॒तः । सा॒चीऽइ॑व । विश्वा॑ । भुव॑ना । नि । ऋ॒ञ्ज॒से॒ । प्र । सप्त॑यः । प्र । स॒नि॒ष॒न्त॒ । नः॒ । धियः॑ । पु॒रः । च॒र॒न्ति॒ । प॒शु॒ऽपाःऽइ॑व । त्मना॑ ॥प्रवत् । ते । अग्ने । जनिम । पितुयतः । साचीइव । विश्वा । भुवना । नि । ऋञ्जसे । प्र । सप्तयः । प्र । सनिषन्त । नः । धियः । पुरः । चरन्ति । पशुपाःइव । त्मना ॥pra-vat | te | agne | janima | pitu-yataḥ | sācī-iva | viśvā | bhuvanā | ni | ṛñjase | pra | saptayaḥ | pra | saniṣanta | naḥ | dhiyaḥ | puraḥ | caranti | paśu-pāḥ-iva | tmanā