Sukta 10.14
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥
अपे॑त॒ वी॑त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो॑ लो॒कम॑क्रन् । अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ॥
apéta vīta ví ca sarpatāto ’smā etáṃ pitáro lokám akran | áhobhir ádbhir áktubhir vyàktam yamó dadāty avasā́nam asmai ||
Depart, withdraw, slink away from here. For him the Fathers have fashioned this world—distinctly ordered by days, waters, and nights. Yama grants to him a resting-place, a settled foundation.
अप॑ । इ॒त॒ । वि । इ॒त॒ । वि । च॒ । स॒र्प॒त॒ । अतः॑ । अ॒स्मै । ए॒तम् । पि॒तरः॑ । लो॒कम् । अ॒क्र॒न् । अहः॑ऽभिः । अ॒त्ऽभिः । अ॒क्तुऽभिः॑ । विऽअ॑क्तम् । य॒मः । द॒दा॒ति॒ । अ॒व॒ऽसान॑म् । अ॒स्मै॒ ॥अप । इत । वि । इत । वि । च । सर्पत । अतः । अस्मै । एतम् । पितरः । लोकम् । अक्रन् । अहःभिः । अत्भिः । अक्तुभिः । विअक्तम् । यमः । ददाति । अवसानम् । अस्मै ॥apa | ita | vi | ita | vi | ca | sarpata | ataḥ | asmai | etam | pitaraḥ | lokam | akran | ahaḥ-bhiḥ | at-bhiḥ | aktu-bhiḥ | vi-aktam | yamaḥ | dadāti | ava-sānam | asmai