Sukta 10.14
सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् । हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥
सं ग॑च्छस्व पि॒तृभि॒: सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन् । हि॒त्वाया॑व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा॑ सु॒वर्चा॑: ॥
saṃ gácchasva pitṛ́bhiḥ saṃ yaméneṣṭāpū́rtena paramé vyòman | hitvā́yāvadyaṃ púnar ástam éhi saṃ gácchasva tanvā̀ suvárcāḥ ||
Unite with the Fathers, unite with Yama, with your fulfilled works in the highest expanse. Having left the fault behind, come again to your home; unite with a body of radiant splendour.
सम् । ग॒च्छ॒स्व॒ । पि॒तृऽभिः॑ । सम् । य॒मेन॑ । इ॒ष्टा॒पू॒र्तेन॑ । प॒र॒मे । विऽओ॑मन् । हि॒त्वाय॑ । अ॒व॒द्यम् । पुनः॑ । अस्त॑म् । आ । इ॒हि॒ । सम् । ग॒च्छ॒स्व॒ । त॒न्वा॑ । सु॒ऽवर्चाः॑ ॥सम् । गच्छस्व । पितृभिः । सम् । यमेन । इष्टापूर्तेन । परमे । विओमन् । हित्वाय । अवद्यम् । पुनः । अस्तम् । आ । इहि । सम् । गच्छस्व । तन्वा । सुवर्चाः ॥sam | gacchasva | pitṛ-bhiḥ | sam | yamena | iṣṭāpūrtena | parame | vi-oman | h itvāya | avadyam | punaḥ | astam | ā | ihi | sam | gacchasva | tanvā | su-varcāḥ