Sukta 10.14
प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः । उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥
प्रेहि॒ प्रेहि॑ प॒थिभि॑: पू॒र्व्येभि॒र्यत्रा॑ न॒: पूर्वे॑ पि॒तर॑: परे॒युः । उ॒भा राजा॑ना स्व॒धया॒ मद॑न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ॥
préhi préhi pathíbhiḥ pūrvyébhir yátrā naḥ pū́rve pitáraḥ paréyuḥ | ubhā́ rājānā svadháyā mádantā yámam paśyāsi váruṇaṃ ca devám ||
Go forth, go forth by the ancient paths where our earlier Fathers have gone. There, the two kings rejoice in svadhā; you shall behold Yama and also Varuṇa, the god.
प्र । इ॒हि॒ । प्र । इ॒हि॒ । प॒थिऽभिः॑ । पू॒र्व्येभिः॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । उ॒भा । राजा॑ना । स्व॒धया॑ । मद॑न्ता । य॒मम् । प॒श्या॒सि॒ । वरु॑णम् । च॒ । दे॒वम् ॥प्र । इहि । प्र । इहि । पथिभिः । पूर्व्येभिः । यत्र । नः । पूर्वे । पितरः । पराईयुः । उभा । राजाना । स्वधया । मदन्ता । यमम् । पश्यासि । वरुणम् । च । देवम् ॥pra | ihi | pra | ihi | pathi-bhiḥ | pūrvyebhiḥ | yatra | naḥ | pūrve | pitaraḥ | parāīyuḥ | ubhā | rājānā | svadhayā | madantā | yamam | paśyāsi | varuṇam | ca | devam