Sukta 10.14
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥
अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यास॑: । तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
áṅgiraso naḥ pitáro návagvā átharvāṇo bhṛ́gavaḥ sómyāsaḥ | téṣāṃ vayáṃ sumatáu yajñíyānām ápi bhadré saumanasé syāma ||
Our Fathers are the Angirases, the Navagvas, the Atharvans, the Bhrigus—those who delight in Soma. May we too be in the good-will of these worthy of sacrifice; may we enter a noble harmony of mind.
अङ्गि॑रसः । नः॒ । पि॒तरः॑ । नव॑ऽग्वाः । अथ॑र्वाणः । भृग॑वः । सो॒म्यासः॑ । तेषा॑म् । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिया॑नाम् । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥अङ्गिरसः । नः । पितरः । नवग्वाः । अथर्वाणः । भृगवः । सोम्यासः । तेषाम् । वयम् । सुमतौ । यज्ञियानाम् । अपि । भद्रे । सौमनसे । स्याम ॥aṅgirasaḥ | naḥ | pitaraḥ | nava-gvāḥ | atharvāṇaḥ | bhṛgavaḥ | somyāsaḥ | teṣām | vayam | su-matau | yajñiyānām | api | bhadre | saumanase | syāma