Sukta 10.14
अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व । विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥
अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥
áṅgirobhir ā́ gahi yajñíyebhir yáma vairū́pair ihá mādayasva | vívasvantaṃ huve yáḥ pitā́ te ’smín yajñé barhíṣy ā́ niṣádya ||
O Yama, come here with the Angirases worthy of sacrifice, with the manifold powers; take delight here. I call Vivasvat, who is your Father—sit down upon the sacred seat in this offering.
अङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ । विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥अङ्गिरःभिः । आ । गहि । यज्ञियेभिः । यम । वैरूपैः । इह । मादयस्व । विवस्वन्तम् । हुवे । यः । पिता । ते । अस्मिन् । यज्ञे । बर्हिषि । आ । निसद्य ॥aṅgiraḥ-bhiḥ | ā | gahi | yajñiyebhiḥ | yama | vairūpaiḥ | iha | mādayasva | vivasvantam | huve | yaḥ | pitā | te | asmin | yajñe | barhiṣi | ā | ni-sadya