Sukta 10.14
इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥
इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभि॑: संविदा॒नः । आ त्वा॒ मन्त्रा॑: कविश॒स्ता व॑हन्त्वे॒ना रा॑जन्ह॒विषा॑ मादयस्व ॥
imáṃ yama prastáram ā́ hí sī́dā́ṅgirobhíḥ pitṛ́bhiḥ saṃvidānáḥ | ā́ tvā mántrāḥ kaviśastā́ vahantv enā́ rājan havíṣā mādayasva ||
O Yama, come and sit upon this seat of spreadness; be in conscious accord with the Angirases and the Fathers. Let the mantras, praised by the seers, carry you here; O King, take delight in this offering.
इ॒मम् । य॒म॒ । प्र॒ऽस्त॒रम् । आ । हि । सीद॑ । अङ्गि॑रःऽभिः । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । आ । त्वा॒ । मन्त्राः॑ । क॒वि॒ऽश॒स्ताः । व॒ह॒न्तु॒ । ए॒ना । रा॒ज॒न् । ह॒विषा॑ । मा॒द॒य॒स्व॒ ॥इमम् । यम । प्रस्तरम् । आ । हि । सीद । अङ्गिरःभिः । पितृभिः । सम्विदानः । आ । त्वा । मन्त्राः । कविशस्ताः । वहन्तु । एना । राजन् । हविषा । मादयस्व ॥imam | yama | pra-staram | ā | hi | sīda | aṅgiraḥ-bhiḥ | pitṛ-bhiḥ | sam-vidānaḥ | ā | tvā | mantrāḥ | kavi-śastāḥ | vahantu | enā | rājan | haviṣā | mādayasva