Sukta 10.14
मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिॠक्वभिर्वावृधानः । याँश्च देवा वावृधुर्ये च देवान्त्स्वाहान्ये स्वधयान्ये मदन्ति ॥
मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒ॠक्व॑भिर्वावृधा॒नः । याँश्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्त्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ॥
mātálī kavyáir yamó áṅgirobhir bṛ́haspáti ṛ́kvabhir vāvṛdhānáḥ | yā́ṃś ca devā́ vāvṛdhúr ye ca devā́n svā́hā́nye svadháyā́nye mádanti ||
Mātalī with the Kavyas; Yama with the Angirases; Bṛhaspati with the seer-singers—growing strong: and those whom the gods have increased, and those who delight the gods, some by svāhā and some by svadhā, enter the joy of their own law.
मात॑ली । क॒व्यैः । य॒मः । अङ्गि॑रःऽभिः । बृह॒स्पतिः॑ । ऋक्व॑ऽभिः । व॒वृ॒धा॒नः । यान् । च॒ । दे॒वाः । व॒वृ॒धुः । ये । च॒ । दे॒वान् । स्वाहा॑ । अ॒न्ये । स्व॒धया॑ । अ॒न्ये । म॒द॒न्ति॒ ॥मातली । कव्यैः । यमः । अङ्गिरःभिः । बृहस्पतिः । ऋक्वभिः । ववृधानः । यान् । च । देवाः । ववृधुः । ये । च । देवान् । स्वाहा । अन्ये । स्वधया । अन्ये । मदन्ति ॥mātalī | kavyaiḥ | yamaḥ | aṅgiraḥ-bhiḥ | bṛhaspatiḥ | ṛkva-bhiḥ | vavṛdhānaḥ | yān | ca | devāḥ | vavṛdhuḥ | ye | ca | devān | svāhā | anye | svadhayā | anye | madanti