Sukta 10.14
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥
य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ । यत्रा॑ न॒: पूर्वे॑ पि॒तर॑: परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
yamó no gātúṃ prathamó viveda náiṣā gavyū́tir apabhártavā u | yátrā naḥ pū́rve pitáraḥ paréyur enā́ jajñānā́ḥ pathyā̀(ḥ) ánu svā́ḥ ||
Yama first found for us the passage; this track of the rays is not to be taken away. Where our earlier Fathers have gone, along those self-born paths we too, knowing them, follow.
य॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑ति॒र् अप॑ऽभ॒र्त॒वै । ऊँ॒ इति॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥यमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिर् अपभर्तवै । ऊँ इति । यत्र । नः । पूर्वे । पितरः । पराईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥yamaḥ | naḥ | gātum | prathamaḥ | viveda | na | eṣā | gavyūtir apa-bhartavai | oṃ iti | yatra | naḥ | pūrve | pitaraḥ | parāīyuḥ | enā | jajñānāḥ | pathyāḥ | anu | svāḥ