Sukta 10.14
परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्य॒: पन्था॑मनुपस्पशा॒नम् । वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥
paréyivāṃsaṃ praváto mahī́r ánu bahúbhyaḥ pánthām anupaspaśānám | vaivasvatáṃ saṅgámanam jánānāṃ yámam rājānam havíṣā duvasya ||
Serve with the offering King Yama, the son of Vivasvat—he who has gone before along the great descending slopes, who has discerned the path for many, the gathering-place where human beings meet beyond.
प॒रे॒यि॒ऽवांस॑म् । प्र॒ऽवतः॑ । म॒हीः । अनु॑ । ब॒हुऽभ्यः॑ । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नम् । वै॒व॒स्व॒तम् । स॒म्ऽगम॑नम् । जना॑नाम् । य॒मम् । राजा॑नम् । ह॒विषा॑ । दु॒व॒स्य॒ ॥परेयिवांसम् । प्रवतः । महीः । अनु । बहुभ्यः । पन्थाम् । अनुपस्पशानम् । वैवस्वतम् । सम्गमनम् । जनानाम् । यमम् । राजानम् । हविषा । दुवस्य ॥pareyi-vāṃsam | pra-vataḥ | mahīḥ | anu | bahu-bhyaḥ | panthām | anu-paspaśānam | vaivasvatam | sam-gamanam | janānām | yamam | rājānam | haviṣā | duvasya