Sukta 10.14
उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥
उ॒रू॒ण॒साव॑सु॒तृपा॑ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ । ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥
urūṇasā́v asutṛ́pā udumbaláu yámasya dūtáu carato jánāṃ ánu | tā́v asmábhyaṃ dṛśáye sū́ryāya púnar dātām ásum adyéhá bhadrám ||
Wide-nosed, life-thirsting, Udumbala—Yama’s two messengers—move following after men. May those two grant back to us, for seeing the Sun, the breath of life here today, auspicious and whole.
उ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒तः॒ । जना॑न् । अनु॑ । तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुनः॑ । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥उरुनसौ । असुतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरतः । जनान् । अनु । तौ । अस्मभ्यम् । दृशये । सूर्याय । पुनः । दाताम् । असुम् । अद्य । इह । भद्रम् ॥uru-nasau | asu-tṛpau | udumbalau | yamasya | dūtau | carataḥ | janān | anu | tau | asmabhyam | dṛśaye | sūryāya | punaḥ | dātām | asum | adya | iha | bhadram