Sukta 10.14
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ । ताभ्यामेनं परि देहि राजन्त्स्वस्ति चास्मा अनमीवं च धेहि ॥
यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒रक्षी॑ नृ॒चक्ष॑सौ । ताभ्या॑मेनं॒ परि॑ देहि राजन्त्स्व॒स्ति चा॑स्मा अनमी॒वं च॑ धेहि ॥
yaú te śvā́nau yama rakṣitā́rau caturakṣáu pathirakṣī́ nṛcákṣasau | tā́bhyām enaṃ pári dehi rājan svastí cāsmā anamīváṃ ca dhēhi ||
O Yama, the two hounds that are your protectors—four-eyed, guardians of the path, watchers of men—by them encompass this one, O King; set in him well-being, and set also the absence of inner affliction.
यौ । ते॒ । श्वानौ॑ । य॒म॒ । र॒क्षि॒तारौ॑ । च॒तुः॒ऽअ॒क्षौ । प॒थि॒रक्षी॒ इति॑ पथिऽरक्षी॑ । नृ॒ऽचक्ष॑सौ । ताभ्या॑म् । ए॒न॒म् । परि॑ । दे॒हि॒ । रा॒ज॒न् । स्व॒स्ति । च॒ । अ॒स्मै॒ । अ॒न॒मी॒वम् । च॒ । धे॒हि॒ ॥यौ । ते । श्वानौ । यम । रक्षितारौ । चतुःअक्षौ । पथिरक्षी इति पथिरक्षी । नृचक्षसौ । ताभ्याम् । एनम् । परि । देहि । राजन् । स्वस्ति । च । अस्मै । अनमीवम् । च । धेहि ॥yau | te | śvānau | yama | rakṣitārau | catuḥ-akṣau | pathirakṣī itipathi-rakṣī | nṛ-cakṣasau | tābhyām | enam | pari | dehi | rājan | svasti | ca | asmai | anamīvam | ca | dhehi