Sukta 10.14
यमाय सोमं सुनुत यमाय जुहुता हविः । यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥
य॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः । य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः ॥
yamā́ya sómaṃ sunuta yamā́ya juhutā havíḥ | yamáṃ ha yajñó gacchaty agnídūto áraṃkṛtaḥ ||
Press the Soma for Yama; offer the oblation for Yama. For the sacrifice indeed goes to Yama, with Agni as its messenger, rightly prepared and made effective.
य॒माय॑ । सोम॑म् । सु॒नु॒त॒ । य॒माय॑ । जु॒हु॒त॒ । ह॒विः । य॒मम् । ह॒ । य॒ज्ञः । ग॒च्छ॒ति॒ । अ॒ग्निऽदू॑तः । अर॑म्ऽकृतः ॥यमाय । सोमम् । सुनुत । यमाय । जुहुत । हविः । यमम् । ह । यज्ञः । गच्छति । अग्निदूतः । अरम्कृतः ॥yamāya | somam | sunuta | yamāya | juhuta | haviḥ | yamam | ha | yajñaḥ | gacchat i | agni-dūtaḥ | aram-kṛtaḥ