Sukta 10.139
सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् । प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् ॥
सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् । प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥
sásnim avindac cáraṇe nadī́nām ápāvṛṇod dúro áśmavrajānām | prá āsā́m gandharvó amṛ́tāni vocad índro dákṣaṃ pári jānād áhīnām ||
He found the ‘Sasni’ at the footing of the rivers; he opened the doors of the stone-enclosures. The Gandharva proclaimed forth the immortal things of those streams; and Indra came to know, all around, the skill and power of the Serpents.
सस्नि॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृ॒णो॒त् । दु॒रः॑ । अश्म॑ऽव्रजानाम् । प्र । आ॒सा॒म् । ग॒न्ध॒र्वः । अ॒मृता॑नि । वो॒च॒त् । इन्द्रः॑ । दक्ष॑म् । परि॑ । जा॒ना॒त् । अ॒हीना॑म् ॥सस्निम् । अविन्दत् । चरणे । नदीनाम् । अप । अवृणोत् । दुरः । अश्मव्रजानाम् । प्र । आसाम् । गन्धर्वः । अमृतानि । वोचत् । इन्द्रः । दक्षम् । परि । जानात् । अहीनाम् ॥sasnim | avindat | caraṇe | nadīnām | apa | avṛṇot | duraḥ | aśma-vrajānām | pra | āsām | gandharvaḥ | amṛtāni | vocat | indraḥ | dakṣam | pari | jānāt | ahīnām