Sukta 10.137
आप इद्वा उ भेषजीरापो अमीवचातनीः । आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥
आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आप॒: सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥
ā́pa íd vā u bheṣajī́r ā́po amīvá-cātanīḥ | ā́paḥ sárvasya bheṣajī́s tā́s te kṛṇvantu bheṣajám ||
The Waters indeed are healers; the Waters drive away affliction. The Waters are the healing of all; may those Waters shape for you the remedy—restoring wholeness in the life and mind.
आपः॑ । इत् । वा॒ । ऊँ॒ इति॑ । भे॒ष॒जीः । आपः । अ॒मी॒व॒ऽचात॑नीः । आपः॑ । सर्व॑स्य । भे॒ष॒जीः । ताः । ते॒ । कृ॒ण्व॒न्तु॒ । भे॒ष॒जम् ॥आपः । इत् । वा । ऊँ इति । भेषजीः । आपः । अमीवचातनीः । आपः । सर्वस्य । भेषजीः । ताः । ते । कृण्वन्तु । भेषजम् ॥āpaḥ | it | vā | oṃ iti | bheṣajīḥ | āpaḥ | amīva-cātanīḥ | āpaḥ | sarvasya | bheṣajīḥ | tāḥ | te | kṛṇvantu | bheṣajam