Sukta 10.137
त्रायन्तामिह देवास्त्रायतां मरुतां गणः । त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥
त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः । त्राय॑न्ता्॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥
trā́yantām ihá devā́s trā́yatāṃ marútāṃ gaṇáḥ | trā́yantāṃ víśvā bhūtā́ni yáthā́yam arapā́ ásat ||
Let the gods protect him here; let the host of the Maruts protect. Let all beings protect, so that this one may be free from wasting and harm.
त्राय॑न्ताम् । इ॒ह । दे॒वाः । त्राय॑ताम् । म॒रुता॑म् । ग॒णः । त्राय॑न्ताम् । विश्वा॑ । भू॒तानि॑ । यथा॑ । अ॒यम् । अ॒र॒पाः । अस॑त् ॥त्रायन्ताम् । इह । देवाः । त्रायताम् । मरुताम् । गणः । त्रायन्ताम् । विश्वा । भूतानि । यथा । अयम् । अरपाः । असत् ॥trāyantām | iha | devāḥ | trāyatām | marutām | gaṇaḥ | trāyantām | viśvā | bhūtāni | yathā | ayam | arapāḥ | asat