Sukta 10.137
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी । अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥
हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी । अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥
hastā́bhyāṁ dáśaśā́khābhyāṁ jihvā́ vā́caḥ purogavī́ | anāmayitnúbhyāṁ tvā tā́bhyāṁ tvópa spṛśāmasi ||
With the two hands, the ten-branched powers of action, and with the tongue that goes in front of the word as its guide, with those two forces that remove disorder and illness, we touch you closely—so the wholeness of being may be restored.
हस्ता॑भ्याम् । दश॑ऽशाखाभ्याम् । जि॒ह्वा । वा॒चः । पु॒रः॒ऽग॒वी । अ॒ना॒म॒यि॒त्नुऽभ्या॑म् । त्वा॒ । ताभ्या॑म् । त्वा॒ । उप॑ । स्पृ॒शा॒म॒सि॒ ॥हस्ताभ्याम् । दशशाखाभ्याम् । जिह्वा । वाचः । पुरःगवी । अनामयित्नुभ्याम् । त्वा । ताभ्याम् । त्वा । उप । स्पृशामसि ॥hastābhyām | daśa-śākhābhyām | jihvā | vācaḥ | puraḥ-gavī | anāmayitnu-bhyām | tvā | tābhyām | tvā | upa | spṛśāmasi