Sukta 10.137
आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः । दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥
आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः । दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥
ā́ tvā́gamam śáṃtāti-bhir átho ariṣṭá-tāti-bhiḥ | dákṣaṃ te bhadrám ā́bhārṣaṃ párā yakṣmáṃ suvāmi te ||
I have come to you with peace-bringings and with unhurtfulness. I bring you a happy strength of right capacity; I drive away from you the wasting sickness.
आ । त्वा॒ । अ॒ग॒म॒म् । शन्ता॑तिऽभिः । अथो॒ इति॑ । अ॒रि॒ष्टता॑तिऽभिः । दक्ष॑म् । ते॒ । भ॒द्रम् । आ । अ॒भा॒र्ष॒म् । परा॑ । यक्ष्म॑म् । सु॒वा॒मि॒ ते ॥आ । त्वा । अगमम् । शन्तातिभिः । अथो इति । अरिष्टतातिभिः । दक्षम् । ते । भद्रम् । आ । अभार्षम् । परा । यक्ष्मम् । सुवामि ते ॥ā | tvā | agamam | śantāti-bhiḥ | atho iti | ariṣṭatāti-bhiḥ | dakṣam | te | bhadram | ā | abharṣam | parā | yakṣmam | suvām ite