Sukta 10.137
आ वात वाहि भेषजं वि वात वाहि यद्रपः । त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥
आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑: । त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥
ā́ vāta vā́hi bheṣajáṃ ví vāta vā́hi yád rápaḥ | tváṃ hí viśvá-bheṣajo devā́nāṃ dūtá ī́yase ||
O Wind, bring here the healing; O Wind, blow apart and disperse the wasting. For you are the universal medicine, the messenger who moves between the gods and our embodied life.
आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ । त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः । त्वम् । हि । विश्वभेषजः । देवानाम् । दूतः । ईयसे ॥ā | vāta | vāhi | bheṣajam | vi | vāta | vāhi | yat | rapaḥ | tvam | hi | viśva-bheṣajaḥ | devānām | dūtaḥ | īyase