Sukta 10.137
द्वाविमौ वातौ वात आ सिन्धोरा परावतः । दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥
द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वत॑: । दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रप॑: ॥
dvā́v imáu vā́tau vāta ā́ síndhor ā́ parāvátaḥ | dákṣaṃ te anyá ā́ vātu párānyó vātu yád rápaḥ ||
Two winds blow, O Wind: one comes from the River, one from the far beyond. Let one bring you strength and right capacity; let the other blow away what is the wasting affliction.
द्वौ । इ॒मौ । वातौ॑ । वा॒तः॒ । आ । सिन्धोः॑ । आ । प॒रा॒ऽवतः॑ । दक्ष॑म् । ते॒ । अ॒न्यः । आ । वा॒तु॒ । परा॑ । अ॒न्यः । वा॒तु॒ । यत् । रपः॑ ॥द्वौ । इमौ । वातौ । वातः । आ । सिन्धोः । आ । परावतः । दक्षम् । ते । अन्यः । आ । वातु । परा । अन्यः । वातु । यत् । रपः ॥dvau | imau | vātau | vātaḥ | ā | sindhoḥ | ā | parāvataḥ | dakṣam | te | anyaḥ | ā | vātu | parā | anyaḥ | vātu | yat | rapaḥ