Sukta 10.137
उत देवा अवहितं देवा उन्नयथा पुनः । उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥
उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुन॑: । उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुन॑: ॥
utá devā́ áva-hitaṃ devā́ ún nayathā púnaḥ | utā́gaś cakrúṣaṃ devā́ devā jīvayathā púnaḥ ||
And you gods, lift up again what has sunk down; yes, gods, raise it once more. And even if he has committed a fault, O gods, restore him again to life and wholeness.
उ॒त । दे॒वाः॒ । अव॑ऽहितम् । देवाः॑ । उत् । न॒य॒थ॒ । पुन॒रिति॑ । उ॒त । आगः॑ । च॒क्रुष॑म् । दे॒वः॒ । देवाः॑ । जी॒वय॑थ । पुन॒रिति॑ ॥उत । देवाः । अवहितम् । देवाः । उत् । नयथ । पुनरिति । उत । आगः । चक्रुषम् । देवः । देवाः । जीवयथ । पुनरिति ॥uta | devāḥ | ava-hitam | devāḥ | ut | nayatha | punariti | uta | āgaḥ | cakruṣam | devaḥ | devāḥ | jīvayatha | punariti