Sukta 10.136
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः । उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥
वात॒स्याश्वो॑ वा॒योः सखाथो॑ दे॒वेषि॑तो॒ मुनि॑: । उ॒भौ स॑मु॒द्रावा क्षे॑ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ॥
vātásyā́śvo vāyóḥ sákhā́tho devéṣito muníḥ | ubháu samudrā́vā́ kṣeti yáś ca pū́rva utā́paraḥ ||
The Muni is the steed of the Wind, the friend of Vāyu, driven by the gods. He dwells in both oceans—what is before and what is beyond—moving between the two immensities of existence.
वात॑स्य । अश्वः॑ । वा॒योः । सखा॑ । अथो॒ इति॑ । दे॒वऽइ॑षितः । मुनिः॑ । उ॒भौ । स॒मु॒द्रौ । आ । क्षे॒ति॒ । यः । च॒ । पूर्वः॑ । उ॒त । अप॑रः ॥वातस्य । अश्वः । वायोः । सखा । अथो इति । देवइषितः । मुनिः । उभौ । समुद्रौ । आ । क्षेति । यः । च । पूर्वः । उत । अपरः ॥vātasy a | aśvaḥ | vāyoḥ | sakhā | atho iti | deva-iṣitaḥ | muniḥ | ubhau | samudrau | ā | kṣeti | yaḥ | ca | pūrvaḥ | uta | aparaḥ