Sukta 10.136
अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥
अ॒न्तरि॑क्षेण पतति॒ विश्वा॑ रू॒पाव॒चाक॑शत् । मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा॑ हि॒तः ॥
antaríkṣeṇa patati víśvā rūpā́va-cā́kaśat | munír devásya-devasya saúkṛtyāya sákhā hitáḥ ||
He moves through the mid-world; he looks down upon all forms. The Muni, set as a friend for the good work of the God of gods, labours in companionship with the divine.
अ॒न्तरि॑क्षेण । प॒त॒ति॒ । विश्वा॑ । रू॒पा । अ॒व॒ऽचाक॑शत् । मुनिः॑ । दे॒वस्य॑ऽदेवस्य । सौकृ॑त्याय । सखा॑ । हि॒तः ॥अन्तरिक्षेण । पतति । विश्वा । रूपा । अवचाकशत् । मुनिः । देवस्यदेवस्य । सौकृत्याय । सखा । हितः ॥antarikṣeṇa | patati | viśvā | rūpā | ava-cākaśat | muniḥ | devasya-devasya | saukṛtyāya | sakhā | hitaḥ