Sukta 10.136
उन्मदिता मौनेयेन वाताँ आ तस्थिमा वयम् । शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥
उन्म॑दिता॒ मौने॑येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् । शरी॒रेद॒स्माकं॑ यू॒यं मर्ता॑सो अ॒भि प॑श्यथ ॥
unḿaditā maúnéyena vātā́m̐ ā́ tasthima vayám | śarīréd asmā́kaṃ yūyám mártāso abhí paśyatha ||
Made ecstatic by the power of inner silence, we have taken our stand in the currents of the Wind (the Breath of the universal Life). You mortals look only at our body; but our being moves in that vaster movement.
उत्ऽम॑दिता । मौने॑येन । वाता॑न् । आ । त॒स्थि॒म॒ । व॒यम् । शरी॑रा । इत् । अ॒स्माक॑म् । यू॒यम् । मर्ता॑सः । अ॒भि । प॒श्य॒थ॒ ॥उत्मदिता । मौनेयेन । वातान् । आ । तस्थिम । वयम् । शरीरा । इत् । अस्माकम् । यूयम् । मर्तासः । अभि । पश्यथ ॥ut-maditā | mauneyena | vātān | ā | tasthima | vayam | śarīrā | it | asmākam | yūyam | martāsaḥ | abhi | paśyatha