Sukta 10.136
मुनयो वातरशनाः पिशङ्गा वसते मला । वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥
मुन॑यो॒ वात॑रशनाः पि॒शङ्गा॑ वसते॒ मला॑ । वात॒स्यानु॒ ध्राजिं॑ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ॥
múnayo vā́ta-raśaṇāḥ piśáṅgā vasate málā | vā́tasyā́nu dhrā́jiṃ yanti yád devā́so ávikṣata ||
The Munis, girdled with the Wind, tawny in their radiance, wear the dust of earth as their garment. They go following the rushing of the Wind, when the gods have entered into their vision—when the divine powers have looked upon them.
मुन॑यः । वात॑ऽरशनाः । पि॒शङ्गाः॑ । व॒स॒ते॒ । मला॑ । वात॑स्य । अनु॑ । ध्राजि॑म् । यन्ति॑ । यत् । दे॒वासः॑ । अवि॑क्षत ॥मुनयः । वातरशनाः । पिशङ्गाः । वसते । मला । वातस्य । अनु । ध्राजिम् । यन्ति । यत् । देवासः । अविक्षत ॥munayaḥ | vāta-raśaṇāḥ | piśaṅgāḥ | vasate | malā | vātasya | ana | dhrājim | yanti | yat | devāsaḥ | avikṣata