Sukta 10.135
कः कुमारमजनयद्रथं को निरवर्तयत् । कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥
कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥
káḥ kumā́ram ajanayad ráthaṃ kó nír avartayat | káḥ svit tád adyá no brūyād anu-déyī yáthā́bhavat ||
Who gave birth to the Youth? Who set the chariot forth? Who today will tell us that secret—how the following-gift (anu-deyī) came to be: the law by which the true transmission is made?
कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ॑म् । कः । निः । अ॒व॒र्त॒य॒त् । कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒ऽदेयी॑ । यथा॑ । अभ॑वत् ॥कः । कुमारम् । अजनयत् । रथम् । कः । निः । अवर्तयत् । कः । स्वित् । तत् । अद्य । नः । ब्रूयात् । अनुदेयी । यथा । अभवत् ॥kaḥ | kumāram | ajanayat | ratham | kaḥ | niḥ | avartayat | kaḥ | svit | tat | adya | naḥ | brūyāt | anu-deyī | yathā | abhavat