Sukta 10.133
अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥
अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे । अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥
asmábhyaṃ sú tvám indra tā́ṃ śíkṣa yā́ dóhate práti váraṃ jaritré | ácchidrodhnī pī́payad yáthā naḥ sahásra-dhārā páyasā mahī́ gáuḥ ||
For us, O Indra, teach and grant that boon which yields its choicest flow to the singer in return. So may the unbroken-uddered Cow of plenty fill us—vast, thousand-streaming—with her milk of nourishing light.
अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे । अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥अस्मभ्यम् । सु । त्वम् । इन्द्र । ताम् । शिक्ष । या । दोहते । प्रति । वरम् । जरित्रे । अच्छिद्रऊध्नी । पीपयत् । यथा । नः । सहस्रधारा । पयसा । मही । गौः ॥asmabhyam | su | tvam | indra | tām | śikṣa | yā | dohate | prati | varam | jaritre | acch idra-ūghnī | pīpayat | yathā | naḥ | sahasra-dhārā | payasā | mahī | gauḥ