Sukta 10.130
पुमाँ एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् । इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥
पुमाँ॑ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके॑ अ॒स्मिन् । इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सद॒: सामा॑नि चक्रु॒स्तस॑रा॒ण्योत॑वे ॥
púmāṃ enam tanute út kṛṇatti púmān ví tatne ádhi nā́ke asmín | imé mayū́khā úpa sedur ū́ sádaḥ sāmā́ni cakrus tásarāṇy ótave ||
A masculine power extends it and cuts it out; a masculine power spreads it upon this heaven. These beams approached and sat; they fashioned the chants and the shuttles for the weaving.
पुमा॑न् । ए॒न॒म् । त॒नु॒ते॒ । उत् । कृ॒ण॒त्ति॒ । पुमा॑न् । वि । त॒त्ने॒ । अधि॑ । नाके॑ । अ॒स्मिन् । इ॒मे । म॒यूखाः॑ । उप॑ । से॒दुः॒ । ऊँ॒ इति॑ । सदः॑ । सामा॑नि । च॒क्रुः॒ । तस॑राणि । ओत॑वे ॥पुमान् । एनम् । तनुते । उत् । कृणत्ति । पुमान् । वि । तत्ने । अधि । नाके । अस्मिन् । इमे । मयूखाः । उप । सेदुः । ऊँ इति । सदः । सामानि । चक्रुः । तसराणि । ओतवे ॥pumān | enam | tanute | ut | kṛṇatti | pumān | vi | tatne | adhi | nāke | asmin | ime | mayūkhāḥ | upa | seduḥ | oṃ iti | sadaḥ | sāmāni | cakruḥ | tasarāṇi | otave