Sukta 10.130
यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः । इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥
यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः । इ॒मे व॑यन्ति पि॒तरो॒ य आ॑य॒युः प्र व॒याप॑ व॒येत्या॑सते त॒ते ॥
yó yajñó viśvátas tántubhis tatá ékaśataṃ devakarmébhir ā́yataḥ | imé vayanti pitaró yá āyayúḥ prá váyā́pa váyéty āsate taté ||
That sacrifice which is stretched everywhere by threads, extended by a hundred divine workings—these Fathers weave it, who have come; they sit down to weave it forward and to weave it out, the web being spread.
यः । य॒ज्ञः । वि॒श्वतः॑ । तन्तु॑ऽभिः । त॒तः । एक॑ऽशतम् । दे॒व॒ऽक॒र्मेभिः॑ । आऽय॑तः । इ॒मे । व॒य॒न्ति॒ । पि॒तरः॑ । ये । आ॒ऽय॒युः । प्र । व॒य॒ । अप॑ । व॒य॒ । इति॑ । आ॒स॒ते॒ । त॒ते ॥यः । यज्ञः । विश्वतः । तन्तुभिः । ततः । एकशतम् । देवकर्मेभिः । आयतः । इमे । वयन्ति । पितरः । ये । आययुः । प्र । वय । अप । वय । इति । आसते । तते ॥yaḥ | yajñaḥ | viśvataḥ | tantu-bhiḥ | tataḥ | eka-śatam | deva-karmebhiḥ | āyataḥ | ime | vayanti | pitaraḥ | ye | āyayuḥ | pra | vaya | apa | vaya | iti | āsate | tate