Sukta 10.127
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसतिं वयः ॥
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वय॑: ॥
sā́ no adyá yásyā vayáṃ ní te yā́mann ávikṣmahi | vṛkṣé na vasatíṃ váyaḥ ||
May she—this Night—be ours today, in whose journey we settle down; may we enter her path as birds enter a tree, finding a resting-place of safety within her.
सा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि । वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥सा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि । वृक्षे । न । वसतिम् । वयः ॥sā | naḥ | adya | yasyāḥ | vayam | ni | te | yāman | avikṣmahi | vṛkṣe | na | vcasatim | vayaḥ