Sukta 10.126
शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा । शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥
शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विष॑: ॥
śunám asmábhyam ūtáye váruṇo mitró aryamā́ | śárma yacchantu saprátha ādityā́so yád ī́mahe áti dvíṣaḥ ||
For our help, may Varuṇa, Mitra, and Aryaman bring us a happy, auspicious state; may the wide-moving Ādityas grant us sheltering peace, so that what we seek may pass beyond every opposing force.
शु॒नम् । अ॒स्मभ्य॑म् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । शर्म॑ । य॒च्छ॒न्तु॒ । स॒ऽप्रथः॑ । आ॒दि॒त्यासः॑ । यत् । ईम॑हे । अति॑ । द्विषः॑ ॥शुनम् । अस्मभ्यम् । ऊतये । वरुणः । मित्रः । अर्यमा । शर्म । यच्छन्तु । सप्रथः । आदित्यासः । यत् । ईमहे । अति । द्विषः ॥śunam | asmabhyam | ūtaye | varuṇaḥ | mitraḥ | aryamā | śarma | yacchantu | sa-prathaḥ | ādityāsaḥ | yat | īmahe | ati | dviṣaḥ