Sukta 10.126
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंह॒: प्र ता॑र्यग्ने प्रत॒रं न॒ आयु॑: ॥
yáthā ha tyád vasavo gáuryam cit padí ṣitā́m amuñcatā yajatrāḥ | évō ṣv asmán muñcatā vy àṃháḥ prá tāry agne prataráṃ na ā́yuḥ ||
As once, O Vasus worthy of the offering, you released even the bright one bound in the snare, so now release us from the divided distress; and you, Agni, carry us forward—further and more victoriously—into our life-force and its continuance.
यथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ । ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥यथा । ह । त्यत् । वसवः । गौर्यम् । चित् । पदि । सिताम् । अमुञ्चत । यजत्राः । एवो इति । सु । अस्मत् । मुञ्चत । वि । अंहः । प्र । तारि । अग्ने । प्रतरम् । नः । आयुः ॥yathā | ha | tyat | vasavaḥ | gauryam | cit | padi | sitām | amuñcata | yajatrāḥ | evo iti | su | asmat | muñcata | vi | aṃhaḥ | pra | tāri | agne | pra-taram | naḥ | āyuḥ