Sukta 10.126
आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा । उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः ॥
आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विष॑: ॥
ādityā́so áti srídho váruṇo mitró aryamā́ | ugráṃ marúdbhir rudráṃ huvema índram agníṃ svastáye ’ti dvíṣaḥ ||
O Ādityas—Varuṇa, Mitra, Aryaman—carry us beyond the fissures of disharmony. We call the mighty Rudra with the Maruts, and Indra and Agni, for our well-being, beyond the hostile powers.
आ॒दि॒त्यासः॑ । अति॑ । स्रिधः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । उ॒ग्रम् । म॒रुत्ऽभिः॑ । रु॒द्रम् । हु॒वे॒म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विषः॑ ॥आदित्यासः । अति । स्रिधः । वरुणः । मित्रः । अर्यमा । उग्रम् । मरुत्भिः । रुद्रम् । हुवेम । इन्द्रम् । अग्निम् । स्वस्तये । अति । द्विषः ॥ādityāsaḥ | ati | sridhaḥ | varuṇaḥ | mitraḥ | aryamā | ugram | marut-bhiḥ | rudram | huvema | indram | agnim | svastaye | ati | dviṣaḥ