Sukta 10.126
यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा । युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥
यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विष॑: ॥
yūyáṃ víśvaṃ pári pātha váruṇo mitró aryamā́ | yuṣmā́kaṃ śármaṇi priyé syāma supranītáyo ’ti dvíṣaḥ ||
You guard all around—Varuṇa, Mitra, Aryaman. In your dear shelter may we be, well-led, beyond the hostile powers.
यू॒यम् । विश्व॑म् । परि॑ । पा॒थ॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यु॒ष्माकम् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒नी॒त॒यः॒ । अति॑ । द्विषः॑ ॥यूयम् । विश्वम् । परि । पाथ । वरुणः । मित्रः । अर्यमा । युष्माकम् । शर्मणि । प्रिये । स्याम । सुप्रनीतयः । अति । द्विषः ॥yūyam | viśvam | pari | pātha | varuṇaḥ | mitraḥ | aryamā | yuṣmākam | śarmaṇi | pr iye | syāma | su-pranītayaḥ | ati | dviṣaḥ