Sukta 10.126
ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा । नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥
ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विष॑: ॥
té nūnáṃ no ’yám ūtáye váruṇo mitró aryamā́ | náyiṣṭhā u no néṣaṇi párṣiṣṭhā u naḥ párṣaṇy áti dvíṣaḥ ||
May they now be for our help—Varuṇa, Mitra, Aryaman: most sure in leading, lead us; most strong in carrying across, carry us beyond the hostile powers.
ते । नू॒नम् । नः॒ । अ॒यम् । ऊ॒तये॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । नयि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । ने॒षणि॑ । पर्षि॑ष्ठाः । ऊँ॒ इति॑ । नः॒ । प॒र्षणि॑ । अति॑ । द्विषः॑ ॥ते । नूनम् । नः । अयम् । ऊतये । वरुणः । मित्रः । अर्यमा । नयिष्ठाः । ऊँ इति । नः । नेषणि । पर्षिष्ठाः । ऊँ इति । नः । पर्षणि । अति । द्विषः ॥te | nūnam | naḥ | ayam | ūtaye | varuṇaḥ | mitraḥ | aryamā | nayiṣṭhāḥ | oṃ iti | naḥ | neṣaṇi | parṣiṣṭhāḥ | oṃ iti | naḥ | parṣaṇi | ati | dviṣaḥ