Sukta 10.125
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥
ahám eva svayám idáṃ vadāmi júṣṭaṃ devébhir utá mā́nuṣebhiḥ | yáṃ kāmáye táṃ-tam ugráṃ kṛṇomi táṃ brahmā́ṇaṃ tám ṛ́ṣiṃ táṃ sumedhā́m ||
I, even I, speak this by my own power—welcomed by the gods and also by men. Whom I choose, that one I make mighty; him I shape into a brahmā, into a seer, into a clear-intelligence.
अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वेभिः॑ । उ॒त । मानु॑षेभिः । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवेभिः । उत । मानुषेभिः । यम् । कामये । तम्तम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुमेधाम् ॥aham | eva | svayam | idam | vadāmi | juṣṭam | devebhiḥ | uta | mānuṣebhiḥ | yam | kāmaye | tam-tam | ugram | kṛṇomi | tam | brahmāṇam | tam | ṛṣim | tam | su-medhām