Sukta 10.124
इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् । असो हव्यवाळुत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥
इ॒मं नो॑ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं॑ स॒प्तत॑न्तुम् । असो॑ हव्य॒वाळु॒त न॑: पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ॥
imáṁ no agne úpa yajñám ehi páñcayāmaṁ trivṛ́taṁ saptátantum | ásó havyavā́ḷ utá naḥ purogā́ jyóg eva dī́rghaṁ táma ā́śayiṣṭhāḥ ||
Come near, O Agni, to this our sacrifice—fivefold in its movements, threefold in its wideness, seven-threaded in its weaving. Be our carrier of the offering, go before us; and as with a long-continued light, lay down the prolonged darkness.
इ॒मम् । नः॒ । अ॒ग्ने॒ । उप॑ । य॒ज्ञम् । आ । इ॒हि॒ । पञ्च॑ऽयामम् । त्रि॒ऽवृत॑म् । स॒प्तऽत॑न्तुम् । असः॑ । ह॒व्य॒ऽवाट् । उ॒त । नः॒ । पु॒रः॒ऽगाः । ज्योक् । ए॒व । दी॒र्घम् । तमः॑ । आ । अ॒श॒यि॒ष्ठाः॒ ॥इमम् । नः । अग्ने । उप । यज्ञम् । आ । इहि । पञ्चयामम् । त्रिवृतम् । सप्ततन्तुम् । असः । हव्यवाट् । उत । नः । पुरःगाः । ज्योक् । एव । दीर्घम् । तमः । आ । अशयिष्ठाः ॥imam | naḥ | agne | upa | yajñam | ā | ihi | pañca-yāmam | tri-vṛtam | sapta-tantum | asaḥ | havya-vāṭ | uta | naḥ | puraḥ-gāḥ | jyok | eva | dīrgham | tamaḥ | ā | aśayiṣṭhāḥ