Sukta 10.123
ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि । वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि ॥
ऊ॒र्ध्वो ग॑न्ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि । वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥
ūrdhvó gandharvó ádhi nā́ke asthāt pratyáṅ citrā́ bíbhrad asyā́yudhāni | vásāno átkam surabhíṁ dṛśé káṁ svàrṇa nā́ma janata priyā́ṇi ||
Upright the Gandharva stands in heaven, turned inward, bearing his bright weapons. Wearing a fragrant radiance for the seeing, he brings to birth the beloved things by the name ‘Svar’ (the luminous heaven).
ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र॑त् । अ॒स्य॒ । आयु॑धानि । वसा॑नः । अत्क॑म् । सु॒ऽर॒भिम् । दृ॒शे । कम् । स्वः॑ । ण । नाम॑ । ज॒न॒त॒ । प्रि॒याणि॑ ॥ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । प्रत्यङ् । चित्रा । बिभ्रत् । अस्य । आयुधानि । वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । ण । नाम । जनत । प्रियाणि ॥ūrdhvaḥ | gandharvaḥ | adhi | nāke | asthāt | pratyaṅ | citrā | bibhrat | asya | āyudhāni | vasānaḥ | atkam | su-rabhim | dṛśe | kam | svaḥ | ṇa | nāma | janata | priyāṇi