Sukta 10.123
नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥
नाके॑ सुप॒र्णमुप॒ यत्पत॑न्तं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा । हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम् ॥
nā́ke suparṇám úpa yát pátantaṁ hṛdā́ vénanto abhy ácakṣata tvā | híraṇyapakṣaṁ váruṇasya dūtáṁ yámasya yónau śakunáṁ bhuraṇyúm ||
When you fly near in the heaven, as the fair-winged bird, those who seek with the heart behold you. Golden-winged, the messenger of Varuṇa, a swift bird in the womb of Yama—you move with irresistible speed.
नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्तः । अ॒भि । अच॑क्षत । त्वा॒ । हिर॑ण्यऽपक्ष॑म् । वरु॑णस्य । दू॒तम् । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्युम् ॥नाके । सुपर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभि । अचक्षत । त्वा । हिरण्यपक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥nāke | su-parṇam | upa | yat | patantam | hṛdā | venantaḥ | abhi | acakṣata | tvā | hiraṇya-pakṣam | varuṇasya | dūtam | yamasya | yonau | śakunam | bhuraṇyum