Sukta 10.123
द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् । भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥
द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् । भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥
drapsáḥ samudrám abhí yáj jigā́ti páśyan gṛ́dhrasya cákṣasā vídharman | bhānúḥ śukréṇa śóciṣā cakā́nās tṛtī́ye cakré rájasi priyā́ṇi ||
The drop of essence moves toward the ocean, seeing with the vulture’s far-sight, upholding the law. The beam, rejoicing in its bright flame, establishes the beloved things in the third realm of rajas.
द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् । भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥द्रप्सः । समुद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विधर्मन् । भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥drapsaḥ | samudram | abhi | yat | jigāti | paśyan | gṛdhrasya | cakṣasā | vi-dhamarn | bhānuḥ | śukreṇa | śociṣā | cakānaḥ | tṛtīye | cakre | rajasi | priyāṇi