Sukta 10.123
जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् । ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥
जा॒नन्तो॑ रू॒पम॑कृपन्त॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् । ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग॑न्ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥
jā́nanto rū́pam akṛpanta víprā mṛgásya ghóṣaṁ mahiṣásya hí gman | ṛténa yánto ádhi síndhum asthur vídad gandharvó amṛ́tāni nā́ma ||
Knowing the form, the seers shaped it; they went to the cry of the wild being, to the call of the great one. Moving by Ṛta they stood upon the river-stream; the Gandharva found the deathless Names.
जा॒नन्तः॑ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः॑ । मृ॒गस्य॑ । घोष॑म् । म॒हि॒षस्य॑ । हि । ग्मन् । ऋ॒तेन॑ । यन्तः॑ । अधि॑ । सिन्धु॑म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता॑नि । नाम॑ ॥जानन्तः । रूपम् । अकृपन्त । विप्राः । मृगस्य । घोषम् । महिषस्य । हि । ग्मन् । ऋतेन । यन्तः । अधि । सिन्धुम् । अस्थुः । विदत् । गन्धर्वः । अमृतानि । नाम ॥jānantaḥ | rūpam | akṛpanta | viprāḥ | mṛgasya | ghoṣam | mahiṣasya | hi | gman | ṛtena | yantaḥ | adhi | sindhum | asthuḥ | vidat | gandharvaḥ | amṛtāni | nāma