Sukta 10.123
समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः । ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥
स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तर॒: सनी॑ळाः । ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणी॑: ॥
samānáṁ pū́rvīr abhí vāvaśānā́s tíṣṭhan vatsásya mā́taraḥ sanī́ḷāḥ | ṛtásya sā́nāv ádhi cakramāṇā́ rihánti mádhvo amṛ́tasya vā́ṇīḥ ||
Toward the one common source the ancient Mothers press, standing together around the calf in one nest. Moving on the summit of Ṛta, they lick out the honeyed utterances of immortality.
स॒मा॒नम् । पू॒र्वीः । अ॒भि । व॒व॒शा॒नाः । तिष्ठ॑न् । व॒त्सस्य॑ । मा॒तरः॑ । सऽनी॑ळाः । ऋ॒तस्य॑ । सानौ॑ । अधि॑ । च॒क्र॒मा॒णाः । रि॒हन्ति॑ । मध्वः॑ । अ॒मृत॑स्य । वाणीः॑ ॥समानम् । पूर्वीः । अभि । ववशानाः । तिष्ठन् । वत्सस्य । मातरः । सनीळाः । ऋतस्य । सानौ । अधि । चक्रमाणाः । रिहन्ति । मध्वः । अमृतस्य । वाणीः ॥samānam | pūrvīḥ | abhi | vavaśānāḥ | tiṣṭhan | vatsasya | mātaraḥ | sa-nīḷāḥ | ṛtasya | sānau | adhi | cakramāṇāḥ | rihanti | madhvaḥ | amṛtasya | vāṇīḥ