Sukta 10.123
समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि । ऋतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः ॥
स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि । ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥
samudrā́d ū́rmim úd iyarti véno nabhojā́ḥ pṛṣṭháṁ haryatá̄́sya darśi | ṛtásya sā́nāv ádhi viṣṭápi bhrā́ṭ samānáṁ yónim abhy ànūṣata vrā́ḥ ||
From the ocean-depth Vena lifts up the wave; heaven-born, he reveals the back of the golden one. Upon the summit of Ṛta, in the highest seat, the radiant powers move toward the one common womb, chanting their assent.
स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒ऽजाः । पृ॒ष्ठम् । ह॒र्य॒तस्य॑ । द॒र्शि॒ । ऋ॒तस्य॑ । सानौ॑ । अधि॑ । वि॒ष्टपि॑ । भ्राट् । स॒मा॒नम् । योनि॑म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥समुद्रात् । ऊर्मिम् । उत् । इयर्ति । वेनः । नभःजाः । पृष्ठम् । हर्यतस्य । दर्शि । ऋतस्य । सानौ । अधि । विष्टपि । भ्राट् । समानम् । योनिम् । अभि । अनूषत । व्राः ॥samudrāt | ūrmim | ut | iyarti | venaḥ | nabhaḥ-jāḥ | pṛṣṭham | haryatasya | darśi | ṛtasya | sānau | adhi | viṣṭapi | bhrāṭ | samānam | yonim | abhi | ānūṣata | vrāḥ