Sukta 10.12
यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म । मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥
यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म । मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥
yásmin devā́ mánmani saṃcáranty apī́cye ná vayám asya vidma | mitró no átrā́ditir ánāgān savitā́ devó váruṇāya vocat ||
That secret mind-space in which the gods move together—we do not know it. Here may Mitra and Aditi make us without fault; may Savitṛ, the god, speak for us to Varuṇa—so the inner law is restored and the path opens again.
यस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ । मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥यस्मिन् । देवाः । मन्मनि । सम्चरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म । मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥yasmin | devāḥ | manmani | sam-caranti | apīcye | na | vayam | asya | vidma | mitraḥ | naḥ | atra | aditiḥ | anāgān | savitā | devaḥ | varuṇāya | vocat