Sukta 10.12
यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते । सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥
यस्मि॑न्दे॒वा वि॒दथे॑ मा॒दय॑न्ते वि॒वस्व॑त॒: सद॑ने धा॒रय॑न्ते । सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॒॑क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ॥
yásmin devā́ vidáthe mā́dayante vivásvataḥ sádane dhāráyante | sū́rye jyótir ádadhur mā́si aktū́n pári dyotaníṃ cárato ájasrā ||
In that seat where the gods rejoice in the inspired assembly, they uphold the dwelling of Vivasvat. In the Sun they set the Light; through the months they arrange the nights, and the unfailing pair move around the shining path—establishing the rhythmic order of time for the soul’s growth.
यस्मि॑न् । दे॒वाः । वि॒दथे॑ । मा॒दय॑न्ते । वि॒वस्व॑तः । सद॑ने । धा॒रय॑न्ते । सूर्ये॑ । ज्योतिः॑ । अद॑धुः । मा॒सि । अ॒क्तून् । परि॑ । द्यो॒त॒निम् । च॒र॒तः॒ । अज॑स्रा ॥यस्मिन् । देवाः । विदथे । मादयन्ते । विवस्वतः । सदने । धारयन्ते । सूर्ये । ज्योतिः । अदधुः । मासि । अक्तून् । परि । द्योतनिम् । चरतः । अजस्रा ॥yasmin | devāḥ | vidathe | mādayante | vivasvataḥ | sadane | dhārayante | sūrye | jyotiḥ | adadhuḥ | māsi | aktūn | pari | dyotanim | carataḥ | ajasrā