Sukta 10.12
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति । यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥
दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा॑ति । य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ॥
durmantv átrāmṛ́tasya nā́ma sálakṣmā yád víṣu-rūpā bhávāti | yámasya yó mánavate sumántv agne tám ṛṣva pā́hy áprayucchan ||
Here the name of the Deathless becomes hard to hold—its sign is one, yet it appears in many forms. O Agni, the strong one, guard without failing that good intention which belongs to Yama and is meant for the human being: protect the right-minded guidance that leads through the law of death toward immortality.
दुः॒ऽमन्तु॑ । अत्र॑ । अ॒मृत॑स्य । नाम॑ । सऽल॑क्ष्मा । यत् । विषु॑ऽरूपा । भवा॑ति । य॒मस्य॑ । यः । म॒नव॑ते । सु॒ऽमन्तु॑ । अग्ने॑ । तम् । ऋ॒ष्व॒ । पा॒हि॒ । अप्र॑ऽयुच्छन् ॥दुःमन्तु । अत्र । अमृतस्य । नाम । सलक्ष्मा । यत् । विषुरूपा । भवाति । यमस्य । यः । मनवते । सुमन्तु । अग्ने । तम् । ऋष्व । पाहि । अप्रयुच्छन् ॥duḥ-mantu | atra | amṛtasya | nāma | sa-lakṣmā | yat | viṣu-rūpā | bhavāti | yamasya | yaḥ | manavate | su-mantu | agne | tam | ṛṣva | pāhi | apra-yucchan