Sukta 10.12
किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद । मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥
किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द । मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥
kíṃ svin no rājā́ jagṛhe kád asyā́ti vratáṃ cakṛmā kó ví veda | mitráś cid dhí ṣmā juhurāṇó devā́ñ chlóko ná yātām ápi vājó ásti ||
What indeed has the King taken from us? What of his law have we overstepped? Who truly knows? Even Mitra, though offering and calling the gods, finds no clear-voiced passage for their coming—yet the plenitude of force (vāja) still exists.
किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ । मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चकृम । कः । वि । वेद । मित्रः । चित् । हि । स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥kim | svit | naḥ | rājā | jagṛhe | kat | asya | ati | vratam | cakṛma | kaḥ | vi | veda | mi traḥ | cit | hi | sma | juhurāṇaḥ | devān | ślokaḥ | na | yātām | api | vājaḥ | asti